
vastu ASSESSMENT
Assessing Auspiciousness and Inauspiciousness of the Place
-Jyotissagar
प्रथमे सप्तमे ग्रामे वैरं हानिस्तरिषष्ठगे।
तुर्याष्टद्वादशे रोगः शेषस्थाने शुभं भवेत्॥
Assessing Auspiciousness and Inauspiciousness of the Place
- Muhurta Chintamani
यद्धं रवड्सुतेशदिङ्मितमसो ग्रामः शुभो नामभात्।
पीयूषधाराटीकायां — यदिति।
Narakriti Chakra Analysis
मस्तके पञ्च नक्षत्राणि लाभाय सदा स्थितम्।
मुखे त्रीणि धनक्षयाय कुक्षौ पञ्च धनं भुवि॥
पादे षट् स्त्रीदरिद्राय पृष्ठे एकं च पीडनम्।
नाभौ चत्वारि सम्पत्तेः गुह्ये एकं भयावहम्॥
दक्षिणे हस्ते क्रन्दनं वामे भेदो विनिर्दिशेत्।
ग्रामनक्षत्रतः सदा जन्मनक्षत्रं विचिन्तयेत्॥
Laabhalaabh Vichaar
स्वर्ग द्विगुणं कृत्वा परवर्गेण योजयेत्।
अष्टभिस्तु हरेद्धागं योऽधिकः स ऋणी भवेत्॥
चिन्तामणिकाररामदैवज्ञेन (12, 1) -
स्वं वर्ग द्विगुणं, विधाय परवर्गाढ्यं गजेः, शोषितं,
काकिण्यस्त्वनयोश्च तद्विवरतो यस्याधिकः सोऽर्थदः।
Main Door Direction According to The Rashi
अथं द्वारनिवेशं वर्णदिगभेदफलं ज्योतिस्सारे -
पूर्वे ब्राह्मणराशीनां वैश्यानां दक्षिणे शुभम्।
शुद्राणां पश्चिमे द्वारं नृषाणामुत्तरे
मीनालिकर्कटा विप्राः क्षत्री मेषो धनुर्हरिः।
वृषकन्यामृगा वैश्या शेषा वै शूद्रराशयः ॥
मीनालिकर्कटा इति।
Direction-Based Main Door Location and Their Effects
अथ पूर्वादिचतुर्दिक्षुद्वारनिवेशनफलान्याह (बृहत्संहिता 53, 69, 73)
अनिलभयं स्त्रीजननं प्रभूतधनता नरेंद्रवाल्लभ्यं।
क्रोधपरताऽनृतत्वं क्रौर्यं चौर्य च पूर्वेण ॥ 1 ॥
अल्पसुतत्वं प्रैष्यं नीचत्वं भेक्ष्यपानसुतवृद्धिः ।
रौद्रं कृतघ्नमधनं सुतवीर्यघ्नं च याम्येन ॥। 2 ॥
सुतपीडा रिपुवृद्धिनं सुतधनासिः सुतार्थफलसम्पत्।
धनसम्पन्नृपतिभयं धनक्षयो रोग इत्यपरे ॥ 3 ॥
वधबन्धो रिपुवृद्धिः सुतधनलाभः समस्तगुणसम्पत्।
पुत्रधनाि्वेरं सुतेन दोषाः स्त्रियाः नैःस्वम्॥ 4 ॥
Grihadasha Gyan
गज शर तुर युगा अश्व मही, गुणा द्वि सहिता मघवादिदिशः क्रमात्।
गृहपतेरभिधा पुरदिङिमिता वसुहृता भवनस्य दशा भवेत्।
रविनिशाकरमङ्गलचंद्रजाः शनिबृहस्पतिराहुकविग्रहाः।।
Varganushar Vivechna
तथोक्तं भूपालवल्लभे वास्तुप्रकरणे -
वर्गाः खगेशमार्जारसिंहश्वसर्पमूषकाः ।
इभावी पूर्वतस्तेषां स्ववर्गात्पञ्चमो रिपुः॥
तस्मात् स्ववैरिवर्गस्य दिशि वासो न शोभनः ॥
Bhoomi Vichaar (Soil Test)
इत्यमनन्तर वर्णपरत्वेन भुवो वर्णगंधविचारो वशिष्ठसंहितायाम् -
श्वेता शस्ता द्विजेन्द्राणां रक्ता भूमिर्महीभुजाम्।
विशां पीता च शद्राणां कृष्णाऽन्येषां विमिश्रिता॥
अथ गन्धानाह गृहकारिकायाम् -
घृतासुगन्नमद्यानां गन्धाश्च क्रमतः शुभाः।
विप्र-क्षत्रिय-विट्-शूद्रजातीनां वास्तुभूमिषु॥
अथ कर्णपरत्वेन भूमेः प्लवत्वफलान्याह भगु: -
उदगादिप्लवमिष्टं विप्रादीनां प्रदक्षिणेनैव। विप्रः सर्वत्र वसेदुक्तस्थानं त्रयाणां हि॥
Vastu Mapan Ikai to Standard Unit Conversion Tool
Convert One Vastu Mapan Ikaai into standard unit.